Class Central is learner-supported. When you buy through links on our site, we may earn an affiliate commission.

CEC

Sanskrit Composition and Communication

CEC via Swayam

Overview

पाठ्यक्रमस्य सफलसमाप्तेरनन्तरं छात्राः लघुसिद्धान्तकौमुद्याद्यनुसारंवाक्यादिसंरचनां तत्सम्बद्धान्यविषयांश्च सम्यग्ज्ञातुं प्रयोक्तुं च समर्थाःभविष्यन्ति ।अयं पाठ्यक्रमः स्नातकक्षायां पठतां छात्राणां कृते तु वर्तत एव, स्नातककक्षांसमुत्तीर्णानाम् अन्यप्रतियोगिपरीक्षायाः सन्नद्धतां कुर्वाणानां जिज्ञासूनांछात्राणां च कृतेऽपि उपयोगी भविष्यति ।सप्ताहः-1 लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 1 (व्याकरण-प्रत्याहारादिपरिचयः) लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 2 (संज्ञादिपरिचयः) लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 3 (अच्सन्धि परिज्ञानम्) लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 4 (हलसन्धि परिज्ञानम्) लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 5 (विसर्गसन्धिप्रभृति परिज्ञानम्) सप्ताहः-2 लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 6 (कारकादिपरिचयः प्रथमाविभक्तिश्च) लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 7 (कर्मकारक द्वितीयाविभक्तिश्च) लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 8 (कर्तृकरणादिसंज्ञाविधानं तृतीया-चतुर्थीविभक्तिश्च) लघुसिद्धान्तकौमुदीस्थ-विभक्त्यर्थप्रकरणम् - 9 (अपादानाधिकरणादि-संज्ञाविधानं पंचम्यादिविभक्तिश्च) सप्ताहः-3 वाच्यम् (कर्तृकर्मभाववाच्यानि) -1 वाच्यम् (कर्तृकर्मभाववाच्यानि) -2 वाच्यम् (कर्तृकर्मभाववाच्यानि) -3 वाच्यम् (कर्तृकर्मभाववाच्यानि) -4 सप्ताहः-4 लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 1 (तव्यत्प्रत्ययः) लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 2 (अनीयर-यत्-ण्यत्-प्रत्ययाः) लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः -3(शतृशानच्प्रत्ययौ) लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 4 (क्त-क्तवतुप्रत्ययौ) सप्ताहः-5 लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 5 (क्त्वाप्रत्ययः) लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः – 6 (क्त्वाप्रत्ययः) लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 7 (ल्यप्प्रत्ययः) लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 8 (तुमुन्प्रत्ययः) सप्ताहः-6 लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 9 लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 10 लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 11 (तद्वितेषुमतुप्-इनि-ठन्-पिनि- श-न-इलच्-र-प्रत्ययाः) लघुसिद्धान्तकौमुद्यनुसारं कृत्प्रत्ययाः - 12 (टाबादिस्त्रीप्रत्ययाः) सप्ताहः-7 आंग्लभाषातः संस्कृते संस्कृताद् आंग्लभाषायां चानुवादः – 1 आंग्लभाषातः संस्कृते संस्कृताद् आंग्लभाषायां चानुवादः – 2 आंग्लभाषातः संस्कृते संस्कृताद् आंग्लभाषायां चानुवादः – 3 सप्ताहः-8 हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः – 1 हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः – 2 हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः – 3 हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः – 4 सप्ताहः-9 हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः -5 हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः -6 हिन्दीभाषातः संस्कृते संस्कृताद् हिन्द्यां चानुवादः -7 सप्ताहः-10 व्यावहारिकसंस्कृतम् (संस्कृतसम्भाषणम्) - 1 व्यावहारिकसंस्कृतम् (संस्कृतसम्भाषणम्) – 2 व्यावहारिकसंस्कृतम् (संस्कृतसम्भाषणम्) – 3 व्यावहारिकसंस्कृतम् (संस्कृतसम्भाषणम्) – 4 सप्ताहः-11 परम्परागतविषयक- निबन्धाः - 1 (निबन्ध-स्वरूपादिपरिचयः) परम्परागतविषयक- निबन्धाः - 2 (वेदाः) परम्परागतविषयक- निबन्धाः - 3 (उपनिषद्) परम्परागतविषयक- निबन्धाः - 4 (संस्कृतभाषा) परम्परागतविषयक- निबन्धाः - 5 (संस्कृतिः) सप्ताहः-12 परम्परागतविषयक- निबन्धाः - 6 (रामायणम्) परम्परागतविषयक- निबन्धाः - 7 (महाभारतम्) परम्परागतविषयक- निबन्धाः - 8 (पुराणम्) परम्परागतविषयक- निबन्धाः - 9 (गीता) परम्परागतविषयक- निबन्धाः - 10 (प्रमुखसंस्कृत कवयः तत्कृतयश्च) सप्ताहः-13 आधुनिकविषये निबन्धाः- 1 (मनोरंजनम) आधुनिकविषये निबन्धाः- 2 (की्रडा) आधुनिकविषये निबन्धाः- 3 (राष्ट्रियघटनाक्रमाः) आधुनिकविषये निबन्धाः- 4 (अन्तराष्ट्रियघटनाक्रमाः) सप्ताहः-14 आधुनिकविषये निबन्धाः- 5 (सामाजिकसमस्याः) आधुनिकविषये निबन्धाः- 6 (पर्यावरणम्) आधुनिकविषये निबन्धाः- 7 (संगणकम्)

Syllabus

CBCS इत्याधारितोऽयं “Sanskrit Composition & Communication (संस्कृतसंरचना एवं संचारः) इतिनामकः पाठ्यक्रमः
स्नातककक्षायाः (प्रतिष्ठायाः) षष्ठसत्रपूरकः अर्थात् बी.ए (ऑनर्स) इत्यस्याः षष्ठसत्रस्य कृते वर्तते । अत्र अध्यापनसंरचनादिविषयकम्
एतत्सम्बद्धान्यविषयकं च शिक्षणं बोधनं वा पाठ्यक्रमे निर्धारितग्रन्थानुसारं(लघुसिद्धान्तकौमुद्याद्यनुसारं) भविष्यति ।
अनेन प्रकारेणायं “संस्कृतसंरचना एवं संचारः” इति नामकः पाठ्यक्रमः निम्नरूपेण विभक्तो वर्तते ।
१. विभक्त्यर्थप्रकरणं, वाच्यं, कृत्प्रत्ययाश्च ।
२. अनुवादः संचारश्च ।
३. निबन्धः
१. “विभक्त्यर्थप्रकरणं वाच्यं कृत्प्रत्ययाश्च” इत्याख्ये विभागे छात्राः सर्वप्रथमं लघुसिद्धान्तकौमुद्याः सामान्यपरिचयपूर्वकं तदीयविभक्त्यर्थप्रकरणानुसारं
कर्तृकर्मकरणादिकारकपरिचयं विभक्तिपरिचयपूर्वकप्रथमाद्वितीयादिविभक्तिविधानं तत्तदर्थं च ज्ञास्यन्ति । ततः परं कर्तृवाच्यं कर्मवाच्यं भाववाच्यं चेति
वाक्यसंरचनादृष्ट्या वाच्यत्रयं ज्ञास्यन्ति । अनन्तरं कृत्यप्रत्ययेषु लघुसिद्धान्तकौमुद्यनुसारेण - तव्यत्, तव्य, अनीयर्, यत्, ण्यत्, ण्वुल्, तृच्, अण्, क्त, क्तवतु,
शतृ, शानच्, तुमुन्, क्त्वा, ल्यप्, ल्युट्, घञ्, क्तिन् इत्येतान् प्रत्ययान् सूत्रनिर्देशादिसहितान् पठिष्यन्ति, पठित्वा च तत्तत्प्रत्ययद्वारा सूत्रनिर्देशपूर्वककृदन्तशब्दनिर्माणे
तत्प्रयोगे च समर्था भविष्यन्ति ।
२. “अनुवादः संचारश्च” - इत्यस्मिन् भागे छात्राः कारकसमासकृत्प्रत्ययाद्यनुसारेण हिन्दीभाषातः आङ्ग्लभाषातश्च संस्कृते अनुवादं कर्तुं ज्ञास्यन्ति ।
एवमेव संस्कृतात् हिन्द्याम् आङ्ग्लभाषायां च अनुवादं कर्तुं संस्कृतसंचारं (संस्कृतेन सम्प्रेषणसम्पर्कादिकं) संस्कृतवार्तालापं च ज्ञास्यन्ति ।
३. निबन्धः – इत्यस्मिन् भागे छात्राणां कृते पारम्परिकविषयान् आधुनिकविषयान् चावलम्ब्य निबन्धलेखनादिकं ज्ञापयिष्यते ।
छात्राः इमं भागमधीत्य पारम्परिकविषयेषु आधुनिकविषयेषु च निबन्धलेखनादौ समर्थाः भविष्यन्ति । अत्र पारम्परिकविषयेषु वेदः, उपनिषद्, संस्कृतभाषा, संस्कृतिः,
रामायणम्, महाभारतम्, पुराणम्, गीता, प्रमुखसंस्कृतकाव्यानि चेति विषयानधिकृत्य निबन्धाः प्रस्तुताः सन्ति ।
आधुनिकविषयेषु च मनोरंजन-क्रीडा-राष्ट्रियान्ताराष्ट्रियघटनाक्रम-सामाजिकसमस्याप्रभृतिविषयानधिकृत्य निबन्धाः निदर्शिताः सन्ति ।

प्रदत्तपाठ्यक्रमसम्बद्धगृहकार्यादिसहितोऽयंपाठ्यक्रमः चतुर्दशसप्ताहात्मको वर्तते । ततश्च पाठ्यक्रमे पूर्णे जाते सति अग्रिमे (प्रायः पञ्चदशे) सप्ताहे

परीक्षा भविष्यति ।

Taught by

Shailesh Kumar Tiwari, डॉ० शैलेशकुमारतिवारी

Reviews

Start your review of Sanskrit Composition and Communication

Never Stop Learning.

Get personalized course recommendations, track subjects and courses with reminders, and more.

Someone learning on their laptop while sitting on the floor.