अस्य पाठ्यक्रमस्य अध्ययनेन प्रमाणत्वेन अभिमत: शब्द: कीदृश:? पदलक्षणं किम्? पदं कतिविधं भवति? पदार्थ स्वरूपं किम्? का नाम वृत्ति:? शक्ति:का? का नाम लक्षणा? वाक्यस्वरूपं किम्? आकाड्क्षा नाम का? आसत्तिर्नाम का? योग्यता नाम का? तात्पर्यं नाम किम्? समासे शक्तिर्भवति न वा?प्रकृत्यर्थ: प्रत्ययार्थो वा क:? पदार्थानाम् अन्वयप्रकार: क:? शाब्दबोधे कारणं किं किं भवति? शक्तिग्रह: केन केन माध्यमेन भवति? इत्यादिविषयाणां विवेचनकौशलपुरस्सरं सम्यग् ज्ञानं भविष्यति ।
अयं पाठ्यक्रम: व्याकरणशास्त्रस्य अध्ययनं कुर्वतां न्यायशास्त्रस्य अध्ययनं कुर्वतां च कृते महान् उपकारको वर्तत एव, मीमांसावेदान्तसांख्ययोगादिविषयान् भाषाविज्ञानं च आदाय अध्ययनरतानां कृतेsपि महान् उपकारको विद्यते । यतो हि चार्वाक्-बौद्ध-वैशैषिकदर्शनानि विहाय सर्वेष्वपि दर्शनशास्त्रादिषु शब्दप्रामाण्यं स्वीकृत्य शब्दविषयक: प्रभूतो विचार:कृतो वर्तते । अत्यन्तोपयोगित्वादेव न्यायशास्त्रस्य अयं पाठ्यक्रमःसर्वत्र संस्कृत- शिक्षणसंस्थानेषु प्रायः येन केनापि रूपेण स्वीकृतो वर्तते। अस्य अध्ययनेन पूर्वोक्तविषयानां ज्ञानं भविष्यत्येव । तर्कक्षमताया: विचारदक्षताया: चिन्तनसूक्ष्मतायाश्चापि अपूर्व: कश्चन विकासो भविष्यतीति दृढतमो विश्वासो वर्तते ।